|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.270. अध्यायः 270
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति जाजलितुलाधारसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
तुलाधार उवाच। 12-270-0x(6297)(76068)
सद्भिर्वा यदि वाऽसद्भिः पन्थानमिममाश्रितः।
प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद्यथा॥ 12-270-1(76069)
एते शकुन्ता बहवः समन्ताद्विचरन्ति ह।
तवोत्तमाङ्गे संभूताः श्येनाश्चान्याश्च जातयः॥ 12-270-2(76070)
आहूयैनान्महाब्रह्मन्विशमानांस्ततस्ततः।
पश्येमान्हस्तपादैश्च श्लिष्टान्देहेषु सर्वशः॥ 12-270-3(76071)
संभावयन्ति पितरं त्वया संभाविताः स्वगाः।
असंशयं पिता वै त्वं पुत्रानाह्वय जाजले॥ 12-270-4(76072)
भीष्म उवाच। 12-270-5x(6298)
ततो जाजलिना तेन समाहूताः पतत्रिणः।
वाचमुच्चारयन्ति स्म धर्मस्य वचनात्किल॥ 12-270-5(76073)
तुलाधार उवाच। 12-270-6x(6299)
अहिंसादि कृतं कर्म इह चैव परत्र च।
श्रद्धां निहन्ति वै ब्रह्मन्सा हता हन्ति तं नरम्॥ 12-270-6(76074)
समानां श्रद्दधानानां संयतानां सुचेतसाम्।
कुर्वतां यज्ञ इत्येव न यज्ञो जातु नेष्यते॥ 12-270-7(76075)
श्रद्धा वै सात्विकी देवी सूर्यस्य दुहिता द्विज।
सावित्री प्रसवित्री च हविर्वाङ्भनसी ततः॥ 12-270-8(76076)
वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च जाजले।
श्रद्धावृद्धं वाङ्भनसी न यज्ञस्त्रातुमर्हति॥ 12-270-9(76077)
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः।
शुचेरश्रद्दधानस्य श्रद्दधानस्यर चाशुचेः॥ 12-270-10(76078)
देवा वित्तममन्यन्त सदृशं यज्ञकर्मणि।
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः॥ 12-270-11(76079)
मीमांसित्वोभयं देवाः सममन्नमकल्पयन्।
प्रजापतिस्तानुवाच विषमं कृतमित्युत॥ 12-270-12(76080)
श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत्।
भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः॥ 12-270-13(76081)
अश्रद्दधान एवैको देवानां नार्हते हविः।
तस्यैवान्नं न भोक्तव्यमिति धर्मविदो विदुः॥ 12-270-14(76082)
अश्रद्धा परमं पापं श्रद्धा पापप्रमोचनी।
जहाति पापं श्रद्धावान्सर्पो जीर्णामिव त्वचम्॥ 12-270-15(76083)
ज्यायसी या पवित्राणां निवृत्तिः श्रद्धया सह।
निवृत्तशीलदोषो यः श्रद्धावान्पूत एव सः॥ 12-270-16(76084)
किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥ 12-270-17(76085)
इति धर्मः समाख्यातः सद्भिर्धर्मार्थदर्शिभिः।
वयं जिज्ञासमानास्तु संप्राप्ता धर्मदर्शनात्॥ 12-270-18(76086)
श्रद्धां कुरु महाप्राज्ञ ततः प्राप्स्यसि यत्परम्॥ 12-270-19(76087)
`जाजलिरुवाच। 12-270-20x(6300)
न वै मुनीनां शृणुमश्च तत्वं
पृच्छामि ते वाणिज तत्वमेतत्।
पूर्वे हि पूर्वेऽप्यनवेक्षमाणा
नातः परं ते ऋषयः स्थापयन्ति॥ 12-270-20(76088)
यस्मिन्नेवानुतीर्थेन पशवः प्राप्नुयुः सुखम्।
पत्नीव्रतेन विधिना प्रकरोति नियोजयन्।'
श्रद्धावाञ्श्रद्दधानश्च धर्मश्चैव हि वाणिज॥ 12-270-21(76089)
तुलाधार उवाच। 12-270-22x(6301)
स्ववर्त्मनि स्थितश्चैव गरीयानेव जाजले॥ 12-270-22(76090)
भीष्म उवाच। 12-270-23x(6302)
ततोऽचिरेण कालेन तुलाधारः स एव च।
दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम्।
स्वंस्वं स्थानमुपागम्य स्वकर्मफलनिर्मितम्॥ 12-270-23(76091)
एवं बहुविधार्थं च तुलाधारेण भापितम्।
सम्यक्चैवमुपालब्धो धर्मश्चोक्तः सनातनः॥ 12-270-24(76092)
तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि जाजलिः।
तुलाधारस्य कौन्तेय शान्तिमेवान्वपद्यत॥ 12-270-25(76093)
`समानां श्रद्दधानानां युक्तानां च यथाबलम्।
कुर्वतां यज्ञ इत्येव नायज्ञो जातु नेष्यते॥' 12-270-26(76094)
एवं बहुमतार्थं च तुलाधारेण भाषितम्।
यथौपम्योपदेशेन किं भूयः श्रोतुमिच्छसि॥ ॥ 12-270-27(76095)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तत्यधिकद्विशततमोऽध्यायः॥ 270॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-270-1 अयं पन्थाः समाश्रित इति ट. थ. पाठः॥ 12-270-3 ततस्ततः तेषु तेषु नीडेषु प्रवेशाय श्लिष्टान् संकुचितहस्तपादान्॥ 12-270-5 वाचमुच्चारयन्ति। निःशङ्कं प्रत्युत्तरं प्रयच्छन्तीत्यर्थः। तत्र हेतुः धर्मस्याऽहिंसात्मकस्य संबन्धिनो वचनात्प्रियवचनादित्यर्थः॥ 12-270-6 हिंसा आदिपदार्थः। इह परत्र च प्रत्यक्षफलमिति शेषः। तत्र हिंसाफलमाह श्रद्धामिति। हिंसा श्रद्धां विश्वासं निहन्तीत्यध्याहृत्य योज्यम्। तं विश्वासघातिनम्। स्पर्धानिहन्ति तं धर्मं स हतो हन्तीति ध. पाठः। हिंसा निहन्ति वै धर्मसंहतो हन्तीति थ. पाठः॥ 12-270-7 समानां लाभालाभयोः यज्ञः कर्तव्य इत्येवाभिसंधाय कुर्वतां फलं चाभिसंधायेति एवार्थः। तेषां यज्ञो नेष्वत इति न। संगतानां सुचेतसामिति ध. पाठः॥ 12-270-9 वाचा स्वरवर्णविपर्यासेन यद्वृद्धं छिन्नं नष्टं मन्त्राद्युच्चारणे तच्छ्रद्धा त्रायते समाधत्ते। मनसा व्यग्रेण यन्नष्टं देवताध्यानादि॥ 12-270-12 मीमांसित्वा विचार्य॥ 12-270-14 हविर्दातुमिति शेषः॥ 12-270-17 यत् या सात्विकी राजसी तामसी वा श्रद्धा यस्य स यच्छ्रद्धः। स एव स सात्विको राजसस्तामसो वा॥ 12-270-18 धर्मदर्शनाख्यान्मुनेधैर्मं वयं प्राप्तवन्तः॥ 12-270-19 स्पर्धां जहि महाप्राज्ञेति ध. पाठः॥ 12-270-21 श्रद्धावान्वेदवाक्ये। श्रद्दधानस्तदर्थमनुष्ठातुं ममेदं श्रेय इति निश्चयवान्। धर्मो धर्मात्मा॥ 12-270-22 गरीयानेव भूतले इति ट. थ. पाठः॥ 12-270-27 यर्थापम्योपदेशेन यथायद्दष्टान्तकीर्तनेन॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|